Sukta 10.85
शुची ते चक्रे यात्या व्यानो अक्ष आहतः । अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः । अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥
śucī́ te cakré yātyā́ vyānó ákṣa ā́hataḥ | áno manasmáyaṃ sū́ryā́róhat prayatī́ pátim ||
Pure are your moving wheels; the axle is well-driven and set in motion. Upon the mind-fashioned chariot Sūryā mounts, going forth toward the lord—so the illumined soul takes her seat in the rightly prepared movement toward union.
शुची॑ । ते॒ । च॒क्रे इति॑ । या॒त्याः । वि॒ऽआ॒नः । अक्षः॑ । आऽह॑तः । अनः॑ । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥शुची । ते । चक्रे इति । यात्याः । विआनः । अक्षः । आहतः । अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रयती । पतिम् ॥śucī | te | cakre iti | yātyāḥ | vi-ānaḥ | akṣaḥ | āhataḥ | anaḥ | manasmayam | sūryā | ā | arohat | pra-yatī | patim