Sukta 10.82
तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥
तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥
tám íd gárbhaṃ prathamáṃ dadhra ā́po yátra devā́ḥ samágacchanta víśve | ajásya nā́bhāv ádhy ékam árpitaṃ yásmin víśvāni bhúvanāni tasthúḥ ||
That first womb the Waters indeed held, where all the gods came together. On the navel of the Unborn, the One was set—upon which all the worlds have taken their stand.
तम् । इत् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअग॑च्छन्त । विश्वे॑ । अ॒जस्य॑ । नाभौ॑ । अधि॑ । एक॑म् । अर्पि॑तम् । यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥तम् । इत् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्अगच्छन्त । विश्वे । अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः ॥tam | it | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-agacchanta | vi śve | ajasya | nābhau | adhi | ekam | arpitam | yasmin | viśvāni | bhuvanāni | tasthuḥ