Sukta 10.82
परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति । कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥
paró divā́ pará enā́ pṛthivyā́ paró devébhiḥ ásuraiḥ yád ásti | káṃ svíd gárbhaṃ prathamáṃ dadhra ā́po yátra devā́ḥ samápaśyanta víśve ||
Beyond heaven, beyond even this earth, beyond what is among gods and titanic powers—what is that first womb which the Waters held, where all the gods came together to behold?
प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । यत् । अस्ति॑ । कम् । स्वि॒त् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअप॑श्यन्त । विश्वे॑ ॥परः । दिवा । परः । एना । पृथिव्या । परः । देवेभिः । असुरैः । यत् । अस्ति । कम् । स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्अपश्यन्त । विश्वे ॥paraḥ | divā | paraḥ | enā | pṛthivyā | paraḥ | devebhiḥ | asuraiḥ | yat | asti | kam | svit | garbham | prathamam | dadhre | āpaḥ | yatra | devāḥ | sam-apaśyanta | v iśve