Sukta 10.82
न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥
ná táṃ vidātha yá imā́ jajā́nānyád yuṣmā́kam ántaraṃ babhūva | nīhāréṇa prā́vṛtā jálpyā cāsutṛ́pa ukthaśā́sāś caranti ||
You do not know him who brought these into birth; another has come between you. Covered by mist and by idle talk, the unsatisfied reciters wander on, proclaiming hymns without the true drinking of the essence.
न । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ । नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशासः॑ । च॒र॒न्ति॒ ॥न । तम् । विदाथ । यः । इमा । जजान । अन्यत् । युष्माकम् । अन्तरम् । बभूव । नीहारेण । प्रावृताः । जल्प्या । च । असुतृपः । उक्थशासः । चरन्ति ॥na | tam | vidātha | yaḥ | imā | jajāna | anyat | yuṣmākam | antaram | babhūva | nīhāreṇa | prāvṛtāḥ | jalpyā | ca | asu-tṛpaḥ | uktha-śāsaḥ | caranti