Sukta 10.82
त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥
tá ā́yajanta dráviṇaṃ sám asmai ṛ́ṣayaḥ pū́rve jaritā́ro ná bhūnā́ | asū́rte sū́rte rájasi niṣatté yé bhūtā́ni samákṛṇvann imā́ni ||
The ancient seers, not scant in their giving, offered to him gathered riches of power. Seated in the realm that is unformed and formed, they who shaped these becomings made them into a single ordered whole.
ते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना । अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥ते । आ । अयजन्त । द्रविणम् । सम् । अस्मै । ऋषयः । पूर्वे । जरितारः । न । भूना । असूर्ते । सूर्ते । रजसि । निसत्ते । ये । भूतानि । सम्अकृण्वन् । इमानि ॥te | ā | ayajanta | draviṇam | sam | asmai | ṛṣayaḥ | pūrve | jaritāraḥ | na | bhūnā | asūrte | sūrte | rajasi | ni-satte | ye | bhūtāni | sam-akṛṇvan | imāni