Sukta 10.82
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥
यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥
yó naḥ pitā́ janitā́ yó vidhātā́ dhā́māni veda bhúvanāni víśvā | yó devā́nāṃ nāmadhā́ éka evá táṃ sampraśnáṃ bhúvanā yanty anyā́ ||
He who is our Father and begetter, the Disposer who knows all the stations and all the worlds; he who alone assigns the name-and-law of the gods—toward him the worlds move, questioning him as to the secret of their being.
यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ । यः । दे॒वाना॑म् । ना॒म॒ऽधाः । एकः॑ । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । अ॒न्या ॥यः । नः । पिता । जनिता । यः । विधाता । धामानि । वेद । भुवनानि । विश्वा । यः । देवानाम् । नामधाः । एकः । एव । तम् । सम्प्रश्नम् । भुवना । यन्ति । अन्या ॥yaḥ | naḥ | pitā | janitā | yaḥ | vi-dhātā | dhāmāni | veda | bhuvanāni | viśvā | yaḥ | devānām | nāma-dhāḥ | ekaḥ | eva | tam | sam-praśnam | bhuvanā | yanti | anyā