Sukta 10.82
विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥
viśvákarmā vímānā ā́d vihā́yā dhātā́ vidhātā́ paramó ta sámdṛk | téṣām iṣṭā́ni sám iṣā́ madanti yátrā saptaṛṣī́n pará ékam ā́huḥ ||
Viśvakarman, the wide-ranging thinker, from the highest heaven is the Ordainer and the Disposer, the supreme Seer. Their offerings and desired fulfillments rejoice together in the one sustaining force, where the Seven Seers declare the One beyond.
वि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् । तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥विश्वकर्मा । विमनाः । आत् । विहायाः । धाता । विधाता । परमा । उत । सम्दृक् । तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऋषीन् । परः । एकम् । आहुः ॥viśva-karmā | vi-manāḥ | āt | vi-hāyāḥ | dhātā | vi-dhātā | paramā | uta | sam-dṛk | teṣām | iṣṭāni | sam | iṣā | madanti | yatra | sapta-ṛṣīn | paraḥ | ekam | āhuḥ