Sukta 10.82
चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने । यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥
cákṣuṣaḥ pitā mánasā hí dhīró ghṛtámene ajanann annamā́ne | yadéd ántā adadṛhanta pū́rva ā́d id dyāvāpṛthivī́ aprathetām ||
The Father of vision, the steadfast one, brought forth by the mind the clarified flow of luminous understanding, while the two bowed in adoration. When the first boundaries were firmly set, then Heaven and Earth expanded into their wide habitation.
चक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ । य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥चक्षुषः । पिता । मनसा । हि । धीरः । घृतम् । एने । अजनत् । नम्नमाने इति । यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥cakṣuṣaḥ | pitā | manasā | hi | dhīraḥ | ghṛtam | ene | ajanat | namnamāneiti | yadā | it | antāḥ | adadṛhanta | pūrve | āt | it | dyāvāpṛthivī iti | aprathetām