Sukta 10.80
अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः । अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः । अ॒ग्निर्गान्ध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥
agníṃ víśa īḷate mā́nuṣīr yā́ agníṃ mánuṣo náhuṣo ví jātā́ḥ | agnír gā́ndharvīṃ páthyām ṛtásyā́gner gavyū́tir ghṛtá ā́ níṣattā ||
The human clans adore Agni—those lineages of Man and Nahusha that are born for the Fire. Agni is the Gandharva-path of the Truth (ṛta), and Agni’s track that leads to the Light-herds is seated in the clarified sweetness (ghṛta), firm within the luminous mind.
अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः । अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥अग्निम् । विशः । ईळते । मानुषीः । याः । अग्निम् । मनुषः । नहुषः । वि । जाताः । अग्निः । गान्धर्वीम् । पथ्याम् । ऋतस्य । अग्नेः । गव्यूतिः । घृते । आ । निसत्ता ॥agnim | viśaḥ | īḷate | mānuṣīḥ | yāḥ | agnim | manuṣaḥ | nahuṣaḥ | vi | jātāḥ | agn iḥ | gāndharvīm | pathyām | ṛtasya | agneḥ | gavyūtiḥ | ghṛte | ā | ni-sattā