Sukta 10.8
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥
bhuvo yajñásya rájasas ca netā́ yátrā niyúd-bhiḥ sácase śivā́bhiḥ | diví mūrdhā́naṃ dadhīṣe svàr-sāṃ jihvā́m agne cakṛṣe havya-vā́ham ||
Thou becomest the leader of the sacrifice and of the mid-worlds, where with thy auspicious yoking-powers thou joinest thyself. In heaven thou settest thy head; the tongue that wins the luminous worlds—this, O Agni, thou hast fashioned as the carrier of the offering.
भुवः॑ । य॒ज्ञस्य॑ । रज॑सः । च॒ । ने॒ता । यत्र॑ । नि॒युत्ऽभिः॑ । सच॑से । शि॒वाभिः॑ । दि॒वि । मू॒र्धान॑म् । द॒धि॒षे॒ । स्वः॒ऽसाम् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒ऽवाह॑म् ॥भुवः । यज्ञस्य । रजसः । च । नेता । यत्र । नियुत्भिः । सचसे । शिवाभिः । दिवि । मूर्धानम् । दधिषे । स्वःसाम् । जिह्वाम् । अग्ने । चकृषे । हव्यवाहम् ॥bhuvaḥ | yajñasya | rajasaḥ | ca | netā | yatra | niyut-bhiḥ | sacase | śivābhiḥ | d ivi | mūrdhānam | dadhiṣe | svaḥ-sām | jihvām | agne | cakṛṣe | havya-vāham