Sukta 10.8
भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि । भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥
भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ । भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥
bhuvaś cákṣur mahá ṛtásya gopā́ bhuvo váruṇo yád ṛtā́ya véṣi | bhuvo apā́m napāj jāta-vedō bhuvo dūtó yásya havyáṃ jujóṣaḥ ||
Thou becomest the Eye of the vast world, the guardian of the Truth; thou becomest Varuṇa when thou encompassest and clotheth thyself in the law of Ṛta. Thou becomest the Child of the Waters, O Jātavedas; thou becomest the messenger who gladly accepts the offering that is his.
भुवः॑ । चक्षुः॑ । म॒हः । ऋ॒तस्य॑ । गो॒पाः । भुवः॑ । वरु॑णः । यत् । ऋ॒ताय॑ । वेषि॑ । भुवः॑ । अ॒पाम् । नपा॑त् । जा॒त॒ऽवे॒दः॒ । भुवः॑ । दू॒तः । यस्य॑ । ह॒व्यम् । जुजो॑षः ॥भुवः । चक्षुः । महः । ऋतस्य । गोपाः । भुवः । वरुणः । यत् । ऋताय । वेषि । भुवः । अपाम् । नपात् । जातवेदः । भुवः । दूतः । यस्य । हव्यम् । जुजोषः ॥bhuvaḥ | cakṣuḥ | mahaḥ | ṛtasya | gopāḥ | bhuvaḥ | varuṇaḥ | yat | ṛtāya | veṣi | bhuvaḥ | apām | napāt | jāta-vedaḥ | bhuvaḥ | dūtaḥ | yasya | havyam | jujoṣaḥ