Sukta 10.8
अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य । सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥
अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवै॒: पर॑स्य । स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥
asyá tritáḥ krátunā vavré antár icchán dhītíṃ pitúr eváiḥ párasya | sacasyámānaḥ pitór upásthe jā́mi bruvāṇá ā́yudhāni veti ||
Of this work Trita, by his will, chose the inner way, seeking the thought of the supreme Father by his goings. Moving in companionship in the lap of the Father, speaking as one of kin, he advances with the weapons (powers) of the ancestral spirit.
अ॒स्य । त्रि॒तः । क्रतु॑ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः॑ । पर॑स्य । स॒च॒स्यमा॑नः । पि॒त्रोः । उ॒पऽस्थे॑ । जा॒मि । ब्रु॒वा॒णः । आयु॑धानि । वे॒ति॒ ॥अस्य । त्रितः । क्रतुना । वव्रे । अन्तः । इच्छन् । धीतिम् । पितुः । एवैः । परस्य । सचस्यमानः । पित्रोः । उपस्थे । जामि । ब्रुवाणः । आयुधानि । वेति ॥asya | tritaḥ | kratunā | vavre | antaḥ | icchan | dhītim | pituḥ | evaiḥ | parasya | sacasyamānaḥ | pitroḥ | upa-sthe | jāmi | bruvāṇaḥ | āyudhāni | veti