Sukta 10.8
आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः । अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥
आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्ण॑: । अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषन्त ॥
ā́ yó mūrdhā́naṃ pitrór árabdha ny àdhvaré dadhire sū́ro árṇaḥ | asyá pátmann áruṣīr áśvabudhnā ṛtásya yónau tanvò juṣanta ||
He who has taken the head-summit of the two Parents and set it in the sacrifice—he, the Sun-bright flood. In his onward course the ruddy energies, horse-based, take delight in the womb of Ṛta, in their own embodied forms.
आ । यः । मू॒र्धान॑म् । पि॒त्रोः । अर॑ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः॑ । अर्णः॑ । अस्य॑ । पत्म॑न् । अरु॑षीः । अश्व॑ऽबुध्नाः । ऋ॒तस्य॑ । योनौ॑ । त॒न्वः॑ । जु॒ष॒न्त॒ ॥आ । यः । मूर्धानम् । पित्रोः । अरब्ध । नि । अध्वरे । दधिरे । सूरः । अर्णः । अस्य । पत्मन् । अरुषीः । अश्वबुध्नाः । ऋतस्य । योनौ । तन्वः । जुषन्त ॥ā | yaḥ | mūrdhānam | pitroḥ | arabdha | ni | adhvare | dadhire | sūraḥ | arṇaḥ | asya | patman | aruṣīḥ | aśva-budhnāḥ | ṛtasya | yonau | tanvaḥ | juṣanta