Sukta 10.8
मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् । स देवतात्युद्यतानि कृण्वन्त्स्वेषु क्षयेषु प्रथमो जिगाति ॥
मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् । स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥
mumóda gárbho vṛṣabháḥ kakúdmān asremā́ vátsaḥ śimī́vān arāvīt | sá devátāty úd-yatāni kṛṇván svéṣu kṣáyeṣu prathamó jigāti ||
The embryo rejoiced—the bull with the high crest; the unwearying calf, strong in impulse, cried aloud. He, making the upsurging movements toward the divine host, goes first into his own dwellings: Agni leads the way for the gods within us.
मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् । सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥मुमोद । गर्भः । वृषभः । ककुत्मान् । अस्रेमा । वत्सः । शिमीवान् । अरावीत् । सः । देवताति । उत्यतानि । कृण्वन् । स्वेषु । क्षयेषु । प्रथमः । जिगाति ॥mumoda | garbhaḥ | vṛṣabhaḥ | kakut-mān | asremā | vatsaḥ | śimī-vān | arāvīt | saḥ | deva-tāti | ut-yatāni | kṛṇvan | sveṣu | kṣayeṣu | prathamaḥ | jigāti