Sukta 10.8
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध ॥
प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
prá ketúnā bṛhatā́ yāty agnír ā́ rodasī́ vṛṣabhó roravīti | diváś cid ántāṃ upamā́ṃ úd ānaḷ apā́m upásthe mahiṣó vavardha ||
With a vast banner of light Agni goes forth; as a bull he bellows to the two worlds. He has reached even the ends of heaven, rising beyond the measures; in the lap of the Waters the mighty one has grown.
प्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति । दिवः । चित् । अन्तान् । उपमान् । उत् । आनट् । अपाम् । उपस्थे । महिषः । ववर्ध ॥pra | ketunā | bṛhatā | yāti | agniḥ | ā | rodasī iti | vṛṣabhaḥ | roravīti | divaḥ | cit | antān | upa-mān | ut | ānaṭ | apām | upa-sthe | mahiṣaḥ | vavardha