Sukta 10.79
अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु । नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु । नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥
ápaśyam asya maható mahi-tvám amártyasya mártyāsu vikṣú | nā́nā hanū́ vibhṛ́te sáṃ bharete ásinvatī bápsatī bhū́ry attaḥ ||
I beheld the greatness of this Mighty One, the Immortal moving among the mortal peoples. Two jaws, diverse and upheld, bring together and bear; she does not cease, she labours and devours much.
अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु । नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥अपश्यम् । अस्य । महतः । महित्वम् । अमर्त्यस्य । मर्त्यासु । विक्षु । नाना । हनू इति । विभृते इति विभृते । सम् । भरेते इति । असिन्वती इति । बप्सती इति । भूरि । अत्तः ॥apaśyam | asya | mahataḥ | mahi-tvam | amartyasya | martyāsu | vikṣu | nānā | hanūiti | vibhṛteitivi-bhṛte | sam | bhareteiti | asinvatī iti | bapsatī iti | bhūri | attaḥ