Sukta 10.76
भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता । नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः ॥
भु॒रन्तु॑ नो य॒शस॒: सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता । नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुर॑: ॥
bhurántu no yaśásaḥ sótv ándhaso grā́vāṇo vācā́ divítā divítmatā | naro yátra duhate kāmyáṃ mádhv āghóṣayanto abhíto mithaḥ-túraḥ ||
May the pressing-stones pour out for us the luminous glory; may they press the rapture (Soma) with the word, by the heavenly power and its heavenward force—there where the strong souls milk out the desired honeyed sweetness, sounding it forth on every side, striving together in mutual uplift.
भु॒रन्तु॑ । नः॒ । य॒शसः॑ । सोतु॑ । अन्ध॑सः । ग्रावा॑णः । वा॒चा । दि॒विता॑ । दि॒वित्म॑ता । नरः॑ । यत्र॑ । दु॒ह॒ते । काम्य॑म् । मधु॑ । आ॒ऽघो॒षय॑न्तः । अ॒भितः॑ । मि॒थः॒ऽतुरः॑ ॥भुरन्तु । नः । यशसः । सोतु । अन्धसः । ग्रावाणः । वाचा । दिविता । दिवित्मता । नरः । यत्र । दुहते । काम्यम् । मधु । आघोषयन्तः । अभितः । मिथःतुरः ॥bhurantu | naḥ | yaśasaḥ | sotu | andhasaḥ | grāvāṇaḥ | vācā | divitā | divitmatā | naraḥ | yatra | duhate | kāmyam | madhu | āghoṣayantaḥ | abhitaḥ | mithaḥ-turaḥ