Sukta 10.76
दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः । वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥
दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः । वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥
diváś cidā́ vo ’mávattarebhyo vibhvánā cid āśvápastarebhyaḥ | vāyóś cidā́ sómarabhastarebhyo ’gnéś cid arca pitukṛ́ttarebhyaḥ ||
Even beyond the heaven, to you who are more mighty; even beyond the all-pervading, to you who are more swift in work; even beyond Vayu, to you who are more grasping of Soma; even beyond Agni, sing to you who are more perfect in the right cutting-out: so may our aspiration rise by ever greater intensities of power and skill in the offering.
दि॒वः । चि॒त् । आ । वः॒ । अम॑वत्ऽतरेभ्यः । वि॒ऽभ्वना॑ । चि॒त् । आ॒श्व॑पःऽतरेभ्यः । वा॒योः । चि॒त् । आ । सोम॑रभःऽतरेभ्यः । अ॒ग्नेः । चि॒त् । अ॒र्च॒ । पि॒तु॒कृत्ऽत॑रेभ्यः ॥दिवः । चित् । आ । वः । अमवत्तरेभ्यः । विभ्वना । चित् । आश्वपःतरेभ्यः । वायोः । चित् । आ । सोमरभःतरेभ्यः । अग्नेः । चित् । अर्च । पितुकृत्तरेभ्यः ॥divaḥ | cit | ā | vaḥ | amavat-tarebhyaḥ | vi-bhvanā | cit | āśvapaḥ-tarebhyaḥ | vāyoḥ | cit | ā | somarabhaḥ-tarebhyaḥ | agneḥ | cit | arca | pitukṛt-tarebhyaḥ