Sukta 10.76
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते । दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥
सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते । दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभि॑: ॥
sunvánti sómaṃ rathirā́so ádrayo nír asya rásaṃ gavíṣo duhanti té | duhánty ū́dhar upa-sécanāya káṃ naro havyā́ ná marjayanta ā́sabhiḥ ||
The pressing-stones, swift in their movement, press the Soma; drawing out its essence, seeking the luminous herds, they milk it. They milk the udder for the pouring-out; the strong souls polish the offerings as if with their mouths—making the oblation fit for the gods within.
सु॒न्वन्ति॑ । सोम॑म् । र॒थि॒रासः॑ । अद्र॑यः । निः । अ॒स्य॒ । रस॑म् । गो॒ऽइषः॑ । दु॒ह॒न्ति॒ । ते । दु॒हन्ति॑ । ऊधः॑ । उ॒प॒ऽसेच॑नाय । कम् । नरः॑ । ह॒व्या । न । म॒र्ज॒य॒न्ते॒ । आ॒सऽभिः॑ ॥सुन्वन्ति । सोमम् । रथिरासः । अद्रयः । निः । अस्य । रसम् । गोइषः । दुहन्ति । ते । दुहन्ति । ऊधः । उपसेचनाय । कम् । नरः । हव्या । न । मर्जयन्ते । आसभिः ॥sunvanti | somam | rathirāsaḥ | adrayaḥ | niḥ | asya | rasam | go--iṣaḥ | duhanti | te | duhanti | ūdhaḥ | upa-secanāya | kam | naraḥ | havyā | na | marjayante | āsa-bhiḥ