Sukta 10.76
तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् । गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥
तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् । गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥
tád íd dhy asyá sávanaṃ vivér apo yáthā purā́ mánave gātúm áśret | goárṇasi tvā́ṣṭre áśvanirṇiji préma dhvaréṣv adhvarā́m aśiśrayuḥ ||
For that pressing indeed opened out the Waters, as of old it made for Manu a path to go. In the cow-abundant (field of light), in the Tvaṣṭṛ-made, horse-brightened order, they set the sacrifices forward in the rites: so may our right offering open the inner waters and create the path for the human soul.
तत् । इत् । हि । अ॒स्य॒ । सव॑नम् । वि॒वेः । अ॒पः । यथा॑ । पु॒रा । मन॑वे । गा॒तुम् । अश्रे॑त् । गोऽअ॑र्णसि । त्वा॒ष्ट्रे । अश्व॑ऽनिर्निजि । प्र । ई॒म् । अ॒ध्व॒रेषु॑ । अ॒ध्व॒रान् । अ॒शि॒श्र॒युः॒ ॥तत् । इत् । हि । अस्य । सवनम् । विवेः । अपः । यथा । पुरा । मनवे । गातुम् । अश्रेत् । गोअर्णसि । त्वाष्ट्रे । अश्वनिर्निजि । प्र । ईम् । अध्वरेषु । अध्वरान् । अशिश्रयुः ॥tat | it | hi | asya | savanam | viveḥ | apaḥ | yathā | purā | manave | gātum | aśret | go--arṇasi | tvāṣṭre | aśva-nirniji | pra | īm | adhvareṣu | adhvarān | aśiśrayuḥ