Sukta 10.76
तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥
तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रि॑: सो॒तरि॑ । वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥
tád u śréṣṭhaṃ sávanaṃ sunotanā́tyo na hástayato ádriḥ sótari | vidád dhy àryó abhíbhūti paúṃsyaṃ mahó rāyé cit tarute yád árvataḥ ||
Press out that best libation: like a steed in the hand, let the stone drive it forth, O presser. For the noble one finds the conquering manhood; he overpasses even great riches when the impulsion is rightly harnessed: so may our pressing release the highest force beyond mere possession.
तत् । ऊँ॒ इति॑ । श्रेष्ठ॑म् । सव॑नम् । सु॒नो॒त॒न॒ । अत्यः॑ । न । हस्त॑ऽयतः । अद्रिः॑ । सो॒तरि॑ । वि॒दत् । हि । अ॒र्यः । अ॒भिऽभू॑ति । पौंस्य॑म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व॑तः ॥तत् । ऊँ इति । श्रेष्ठम् । सवनम् । सुनोतन । अत्यः । न । हस्तयतः । अद्रिः । सोतरि । विदत् । हि । अर्यः । अभिभूति । पौंस्यम् । महः । राये । चित् । तरुते । यत् । अर्वतः ॥tat | oṃ iti | śreṣṭham | savanam | sunotana | atyaḥ | na | hasta-yataḥ | adriḥ | sotar i | vidat | hi | aryaḥ | abhi-bhūti | paiṃsyam | mahaḥ | rāye | cit | tarute | yat | arvataḥ