Sukta 10.76
आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन । उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥
आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन । उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सद॑:सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥
ā́ va ṛ́ñjasa ūrjā́ṃ vyùṣṭiṣv índraṃ marúto ródasī anaktana | ubhé yáthā no áhanī sacā́bhuvā sádaḥ-sado varivasyā́ta udbhídā ||
Come, O you who prepare the force: in the dawnings anoint Indra, O Maruts, and the two worlds. May both our Days (the dual movements of light) become companions to us, and in every session grant us wide room by the breaking open: so may the soul receive space and power for the growth of the Truth.
आ । वः॒ । ऋ॒ञ्ज॒से॒ । ऊ॒र्जाम् । विऽउ॑ष्टिषु । इन्द्र॑म् । म॒रुतः॑ । रोद॑सी॒ इति॑ । अ॒न॒क्त॒न॒ । उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । स॒चा॒ऽभुवा॑ । सदः॑ऽसदः । व॒रि॒व॒स्यातः॑ । उ॒त्ऽभिदा॑ ॥आ । वः । ऋञ्जसे । ऊर्जाम् । विउष्टिषु । इन्द्रम् । मरुतः । रोदसी इति । अनक्तन । उभे इति । यथा । नः । अहनी इति । सचाभुवा । सदःसदः । वरिवस्यातः । उत्भिदा ॥ā | vaḥ | ṛñjase | ūrjām | vi-uṣṭiṣu | indram | marutaḥ | rodasī iti | anaktana | ubhe iti | yathā | naḥ | ahanī iti | sacābhuvā | sadaḥ-sadaḥ | varivasyātaḥ | ut-bhidā