Sukta 10.75
सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ । महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥
सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ । म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिन॑: ॥
sukháṃ ráthaṃ yuyuje síndhur aśvínam téna vājaṃ saniṣad asmínn ājā́u | mahā́n hy asyá mahimā́ panasyatédábdhasya sváyaśaso virápśinaḥ ||
Sindhu has yoked an easy-moving chariot, horse-drawn; by that she wins plenitude of force in this battle. Great indeed is her greatness, praised as she is—unconquered, self-glorious, wide-reaching in her power: so may our inner current yoke the right movement and win the victory over limitation.
सु॒खम् । रथ॑म् । यु॒यु॒जे॒ । सिन्धुः॑ । अ॒श्विन॑म् । तेन॑ । वाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ । म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य । स्वऽय॑शसः । वि॒ऽर॒प्शिनः॑ ॥सुखम् । रथम् । युयुजे । सिन्धुः । अश्विनम् । तेन । वाजम् । सनिषत् । अस्मिन् । आजौ । महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्वयशसः । विरप्शिनः ॥sukham | ratham | yuyuje | sindhuḥ | aśvinam | tena | vājam | saniṣat | asmin | ājau | mahān | hi | asya | mahimā | panasyate | adabdhasya | sva-yaśasaḥ | vi-rapśinaḥ