Sukta 10.74
शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् । ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥
शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् । ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥
śacī́-va indram ávase kṛṇudhvam anā́nataṃ damáyantaṃ pṛtanyū́n | ṛbhukṣáṇaṃ maghávānaṃ su-vṛktíṃ bhártā yó vájraṃ náryaṃ puru-kṣúḥ ||
O you who have the power of right action, make Indra for our help—he who does not bow, who tames the fighters within. The builder of effective works, the bountiful, the lord of a good word, he bears the manly thunder-force, wide in his power of increase.
शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् । ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥शचीवः । इन्द्रम् । अवसे । कृणुध्वम् । अनानतम् । दमयन्तम् । पृतन्यून् । ऋभुक्षणम् । मघवानम् । सुवृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरुक्षुः ॥śacī-vaḥ | indram | avase | kṛṇudhvam | anānatam | damayantam | pṛtanyūn | ṛbhukṣaṇam | magha-vānam | su-vṛktim | bhartā | yaḥ | vajram | naryam | puru-kṣuḥ