Sukta 10.74
आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् । सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥
आ तत्त॑ इन्द्रा॒यव॑: पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् । स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥
ā tát ta indrā́yávaḥ panantā́bhi yá ū́rvaṃ gómantaṃ títṛtsān | sakṛ́t-sváṃ yé puru-putrā́m mahī́ṃ sahásra-dhārāṃ bṛhatī́ṃ dudúkṣan ||
Toward that, O Indra, thy seekers press on—those who would cross over to the full store rich in rays of knowledge. Those who once awaken their own wide Earth, many-born, thousand-streaming and vast, make her yield her abundance.
आ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः॑ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गोऽम॑न्तम् । तितृ॑त्सान् । स॒कृ॒त्ऽस्व॑म् । ये । पु॒रु॒ऽपु॒त्राम् । म॒हीम् । स॒हस्र॑ऽधाराम् । बृ॒ह॒तीम् । दुधु॑क्षन् ॥आ । तत् । ते । इन्द्र । आयवः । पनन्त । अभि । ये । ऊर्वम् । गोमन्तम् । तितृत्सान् । सकृत्स्वम् । ये । पुरुपुत्राम् । महीम् । सहस्रधाराम् । बृहतीम् । दुधुक्षन् ॥ā | tat | te | indra | āyavaḥ | pananta | abhi | ye | ūrvam | go--mantam | titṛtsān | sakṛt-svam | ye | puru-putrām | mahīm | sahasra-dhārām | bṛhatīm | dudhukṣan