Sukta 10.74
इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् । धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥
इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् । धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥
iyám eṣām amṛ́tānāṃ gī́ḥ sarvatā́tā yé kṛ́paṇanta rátnaṃ | dhíyaṃ ca yajñáṃ ca sā́dhantas té no dhāntu vasavyám asāmi ||
This is the all-reaching song of those immortals who foster the treasure. They accomplish both the illumined thought and the sacrifice; may they place in us the Vasu-nature—may we come to be in that fullness.
इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् । धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥इयम् । एषाम् । अमृतानाम् । गीः । सर्वताता । ये । कृपणन्त । रत्नम् । धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥iyam | eṣām | amṛtānām | gīḥ | sarva-tātā | ye | kṛpaṇanta | ratnam | dhiyam | ca | yajñam | ca | sādhantaḥ | te | naḥ | dhāntu | vasavyam | asāmi