Sukta 10.74
हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् । चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः ॥
हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् । चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णव॑न्त॒ स्वैः ॥
háva eṣām ásuro nakṣata dyā́ṃ śravasyatā́ mánasā niṃsata kṣā́m | cákṣāṇā yátra suvitā́ya devā́ dyáur na vārébhiḥ kṛṇávanta sváiḥ ||
The call of these powers reaches the Heaven; with a mind that seeks the true hearing they touch and shape the Earth. Seeing the path of right going, the gods there establish their own wideness, as Heaven is built by its proper supports.
हवः॑ । ए॒षा॒म् । असु॑रः । न॒क्ष॒त॒ । द्याम् । श्र॒व॒स्य॒ता । मन॑सा । निं॒स॒त॒ । क्षाम् । चक्षा॑णाः । यत्र॑ । सु॒वि॒ताय॑ । दे॒वाः । द्यौः । न । वारे॑भिः । कृ॒णव॑न्त । स्वैः ॥हवः । एषाम् । असुरः । नक्षत । द्याम् । श्रवस्यता । मनसा । निंसत । क्षाम् । चक्षाणाः । यत्र । सुविताय । देवाः । द्यौः । न । वारेभिः । कृणवन्त । स्वैः ॥havaḥ | eṣām | asuraḥ | nakṣata | dyām | śravasyatā | manasā | niṃsata | kṣām | cakṣāṇāḥ | yatra | suvitāya | devāḥ | dyauḥ | na | vārebhiḥ | kṛṇavanta | svaiḥ