Sukta 10.74
वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः । अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥
वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्व॑न्तो वा॒ ये र॑यि॒मन्त॑: सा॒तौ व॒नंअ वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥
vasū́nāṃ vā carkṛṣá iyákṣan dhiyā́ vā yajñáir vā ródasyoḥ | árvanto vā yé rayimántaḥ sātáu vánam vā yé su-śrúṇam su-śrúto dhuḥ ||
Some among the Vasus strive by an intense inner labour; others attain by the illumined thought, or by the sacrifice that joins Heaven and Earth. Some are the swift steeds of the being, rich in rayi, winning the plenitude in the conquest; others bear the good-hearing and the right-hearing—powers that carry the true inspiration.
वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः । अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः । अर्वन्तः । वा । ये । रयिमन्तः । सातौ । वनुम् । वा । ये । सुश्रुणम् । सुश्रुतः । धुरिति धुः ॥vasūnām | vā | carkṛṣe | iyakṣan | dhiyā | vā | yajñaiḥ | vā | rodasyoḥ | arvantaḥ | vā | ye | rayi-mantaḥ | sātau | vanum | vā | ye | su-śruṇam | su-śrutaḥ | dhuritidhuḥ