Sukta 10.73
चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् । पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् । पृ॒थि॒व्यामति॑षितं॒ यदूध॒: पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥
cakráṃ yád asyā́psv ā́ níṣattam utó tád asmai mádhv íc cacchadyāt | pṛthivyā́m átiṣitaṃ yád ū́dhaḥ páyo góṣv adadhā óṣadhīṣu ||
When his wheel is set in the waters, then for him it should be covered with honey indeed. When the udder is over-stretched upon the earth, thou hast placed the milk in the cows and in the healing plants.
च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्ऽसु । आ । निऽस॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ । मधु॑ । इत् । च॒च्छ॒द्या॒त् । पृ॒थि॒व्याम् । अति॑ऽसितम् । यत् । ऊधः॑ । पयः॑ । गोषु॑ । अद॑धाः । ओष॑धीषु ॥चक्रम् । यत् । अस्य । अप्सु । आ । निसत्तम् । उतो इति । तत् । अस्मै । मधु । इत् । चच्छद्यात् । पृथिव्याम् । अतिसितम् । यत् । ऊधः । पयः । गोषु । अदधाः । ओषधीषु ॥cakram | yat | asya | ap-su | ā | ni-sattam | uto iti | tat | asmai | madhu | it | cacchadyāt | pṛthivyām | ati-sitam | yat | ūdhaḥ | payaḥ | goṣu | adadhāḥ | oṣadhīṣu