Sukta 10.73
त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ । अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥
त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इन्द्र दधिषे॒ गभ॑स्तौ । अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥
tvám etā́ni papriṣe ví nā́ma īśā́na indra dadhiṣe gábhastau | ánu tvā devā́ḥ śávasā madanti uparibudhnā́n vanínaś cakartha ||
Thou hast filled out these powers and set them forth by name, O Indra the lord; thou hast held them in thy grasp. Following thee the gods exult by thy might; thou hast made the lofty-based ones and shaped the winning energies.
त्वम् । ए॒तानि॑ । प॒प्रि॒षे॒ । वि । नाम॑ । ईशा॑नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ॑स्तौ । अनु॑ । त्वा॒ । दे॒वाः । शव॑सा । म॒द॒न्ति॒ । उ॒परि॑ऽबुध्नान् । व॒निनः॑ । च॒क॒र्थ॒ ॥त्वम् । एतानि । पप्रिषे । वि । नाम । ईशानः । इन्द्र । दधिषे । गभस्तौ । अनु । त्वा । देवाः । शवसा । मदन्ति । उपरिबुध्नान् । वनिनः । चकर्थ ॥tvam | etāni | papriṣe | vi | nāma | īśānaḥ | indra | dadhiṣe | gabhastau | anu | tvā | devāḥ | śavasā | madanti | upari-budhnān | vaninaḥ | cakartha