Sukta 10.73
त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम् । त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥
त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम् । त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न् ॥
tváṃ jaghántha námuciṃ makhasyúṃ dā́sāṃ kṛṇvāná ṛ́ṣaye vímāyam | tváṃ cakártha mánave syonā́n pátho deva-trā́ñjásā-iva yā́nān ||
Thou didst strike down Namuci, the perverter of the sacrifice, making the obstructer subject for the seer’s discerning measure. Thou didst fashion for Manu the pleasant paths, godward ways, straight as if by direct going.
त्वम् । जा॒घ॒न्थ॒ । नमु॑चिम् । म॒ख॒स्युम् । दास॑म् । कृ॒ण्वा॒नः । ऋष॑ये । विऽमा॑यम् । त्वम् । च॒क॒र्थ॒ । मन॑वे । स्यो॒नान् । प॒थः । दे॒व॒ऽत्रा । अञ्ज॑साऽइव । याना॑न् ॥त्वम् । जाघन्थ । नमुचिम् । मखस्युम् । दासम् । कृण्वानः । ऋषये । विमायम् । त्वम् । चकर्थ । मनवे । स्योनान् । पथः । देवत्रा । अञ्जसाइव । यानान् ॥tvam | jāghantha | namucim | makhasyum | dāsam | kṛṇvānaḥ | ṛṣaye | vi-māyam | tvam | cakartha | manave | syonān | pathaḥ | deva-trā | añjasāiva | yānān