Sukta 10.73
सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः । ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥
सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निन्द्र॑ उ॒षसो॒ यथान॑: । ऋ॒ष्वैर॑गच्छ॒: सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघन्थ ॥
sá-nāmānā cid dhvasáyo ny àsmā ávāhan índra uṣáso yáthā ánaḥ | ṛṣváir agacchaḥ sákhibhir níkāmaiḥ sā́kaṃ pratiṣṭhā́ hṛ́dyā jaghantha ||
Even the ancient ruinous powers were driven down for him, O Indra, as dawns are borne onward like a chariot. With lofty comrades of one desire thou didst advance; together thou didst smite the heart-hurting resistances that block the standing-place.
सऽना॑माना । चि॒त् । ध्व॒स॒यः॒ । नि । अ॒स्मै॒ । अव॑ । अ॒ह॒न् । इन्द्रः॑ । उ॒षसः॑ । यथा॑ । अनः॑ । ऋ॒ष्वैः । अ॒ग॒च्छः॒ । सखि॑ऽभिः । निऽका॑मैः । सा॒कम् । प्र॒ति॒ऽस्था । हृद्या॑ । ज॒घ॒न्थ॒ ॥सनामाना । चित् । ध्वसयः । नि । अस्मै । अव । अहन् । इन्द्रः । उषसः । यथा । अनः । ऋष्वैः । अगच्छः । सखिभिः । निकामैः । साकम् । प्रतिस्था । हृद्या । जघन्थ ॥sa-nāmānā | cit | dhvasayaḥ | ni | asmai | ava | ahan | indraḥ | uṣasaḥ | yathā | anaḥ | ṛṣvaiḥ | agacchaḥ | sakhi-bhiḥ | ni-kāmaiḥ | sākam | prati-sthā | hṛdyā | jaghantha