Sukta 10.73
मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम् । आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥
मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् । आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिह॒: प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥
mándamāna ṛtā́d ádhi prajā́yai sákhibhir índra iṣirébhiḥ ártham | ā́bhir hí māyā́ úpa dasyúm ā́gān míhaḥ prá tamrā́ avapat tamā́ṃsi ||
Growing in delight from the Truth above, for the birth of the soul’s increase, Indra with his eager comrades sought the aim. With these powers of formation he came upon the Dasyu; the ruddy mists fell away, the darknesses were cast down.
मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥मन्दमानः । ऋतात् । अधि । प्रजायै । सखिभिः । इन्द्रः । इषिरेभिः । अर्थम् । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि ॥mandamānaḥ | ṛtāt | adhi | pra-jāyai | sakhi-bhiḥ | indraḥ | iṣirebhiḥ | artham | ābhiḥ | hi | māyāḥ | upa | dasyum | ā | agāt | mihaḥ | pra | tamrāḥ | avapat | tamāṃsi