Sukta 10.73
समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि । वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥
स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि । व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥
samanā́ tūrṇír úpa yāsi yajñám ā́ nā́satyā sakhyā́ya vakṣi | vasā́vyām indra dhārayaḥ sahásrā aśvínā śūra dadatur maghā́ni ||
With a common swiftness thou comest near the sacrifice; the Nāsatyas thou bearest for comradeship. In the rich dual plenty, O Indra, thou holdest firm; the thousandfold Aśvins, O hero, give the bounties.
स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ । व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥समना । तूर्णिः । उप । यासि । यज्ञम् । आ । नासत्या । सख्याय । वक्षि । वसाव्याम् । इन्द्र । धारयः । सहस्रा । अश्विना । शूर । ददतुः । मघानि ॥samanā | tūrṇiḥ | upa | yāsi | yajñam | ā | nāsatyā | sakhyāya | vakṣi | vasāvyām | indra | dhārayaḥ | sahasrā | aśvinā | śūra | dadatuḥ | maghāni