Sukta 10.73
ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र । त्वमिन्द्र सालावृकान्त्सहस्रमासन्दधिषे अश्विना ववृत्याः ॥
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ । त्वमि॑न्द्र सालावृ॒कान्त्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ॥
ṛṣvā́ te pā́dā prá yát jigā́sy ávardhan vājā́ uta yé cíd átra | tvám indra sālāvṛkā́n sahásram ā́sán dadhiṣe aśvínā ā́ vavṛtyā́ḥ ||
When thy lofty steps press forward to win, the plenitudes of force increase—even those that are here. Thou, O Indra, didst set a thousand sālāvṛkas in their seats, as the Aśvins turned toward thee in their movement.
ऋ॒ष्वा । ते॒ । पादा॑ । प्र । यत् । जिगा॑सि । अव॑र्धन् । वाजाः॑ । उ॒त । ये । चि॒त् । अत्र॑ । त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ । व॒वृ॒त्याः॒ ॥ऋष्वा । ते । पादा । प्र । यत् । जिगासि । अवर्धन् । वाजाः । उत । ये । चित् । अत्र । त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः ॥ṛṣvā | te | pādā | pra | yat | jigāsi | avardhan | vājāḥ | uta | ye | cit | atra | tvam | indra | sālāvṛkān | sahasram | āsan | dadhiṣe | aśvinā | ā | vavṛtyāḥ