Sukta 10.72
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि । देवाँ उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥
अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ । दे॒वाँ उप॒ प्रैत्स॒प्तभि॒: परा॑ मार्ता॒ण्डमा॑स्यत् ॥
aṣṭáu putrā́so ádite r yé jātā́s tanvàḥ pári | devā́ṃ upa práit saptábhiḥ párā mārtā́ṇḍam ā́syat ||
Eight were the sons of Aditi born from her body: with seven she approached the Gods, but the eighth—Mārtāṇḍa—she cast away, the still-mortal formation not yet fit for the divine assembly.
अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ । दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥अष्टौ । पुत्रासः । अदितेः । ये । जाताः । तन्वः । परि । देवान् । उप । प्र । ऐत् । सप्तभिः । परा । मार्ताण्डम् । आस्यत् ॥aṣṭau | putrāsaḥ | aditeḥ | ye | jātāḥ | tanvaḥ | pari | devān | upa | pra | ait | sapta-bhiḥ | parā | mārtāṇḍam | āsyat