Sukta 10.72
यद्देवा यतयो यथा भुवनान्यपिन्वत । अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥
यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत । अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥
yád devā́ yatáyo yáthā bhúvanāny ápinvata | átrā samudrá ā́ gūḷhám ā́ sū́ryam ajabhartana ||
When the Gods, as disciplined seekers, filled out the worlds, then in the ocean they brought forth the Sun that was hidden—the light recovered from concealment within the vast depths.
यत् । दे॒वाः॒ । यत॑यः । य॒था॒ । भुव॑नानि । अपि॑न्वत । अत्र॑ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य॑म् । अ॒ज॒भ॒र्त॒न॒ ॥यत् । देवाः । यतयः । यथा । भुवनानि । अपिन्वत । अत्र । समुद्रे । आ । गूळ्हम् । आ । सूर्यम् । अजभर्तन ॥yat | devāḥ | yatayaḥ | yathā | bhuvanāni | apinvata | atra | samudre | ā | gūḷham | ā | sūryam | ajabhartana