Sukta 10.72
यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत । अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥
यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत । अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥
yád devā́ adáḥ salilé su-saṃrabdhā́ átiṣṭhata | átrā vo nṛ́tyatām iva tīvró réṇur apā́yata ||
When the Gods stood there upon the waters, gathered and intent, then—like dancers in a concentrated rite—your sharp dust of obscurity was driven away: the covering shook loose before the awakened movement.
यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सुऽसं॑रब्धाः । अति॑ष्ठत । अत्र॑ । वः॒ । नृत्य॑ताम्ऽइव । ती॒व्रः । रे॒णुः । अप॑ । आ॒य॒त॒ ॥यत् । देवाः । अदः । सलिले । सुसंरब्धाः । अतिष्ठत । अत्र । वः । नृत्यताम्इव । तीव्रः । रेणुः । अप । आयत ॥yat | devāḥ | adaḥ | salile | su-saṃrabdhāḥ | atiṣṭhata | atra | vaḥ | nṛtyatām-iva | tīvraḥ | reṇuḥ | apa | āyata