Sukta 10.72
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥
अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ । तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ॥
áditi r hí ajaniṣṭa dákṣa yā́ duhitā́ táva | tā́ṃ devā́ ánv ajāyanta bhadrā́ amṛ́ta-bandhavaḥ ||
For Aditi indeed was born from you, O Dakṣa, as your daughter; and after her the Gods were born—benign powers bound to immortality, children of the infinite wideness.
अदि॑तिः । हि । अज॑निष्ट । दक्ष॑ । या । दु॒हि॒ता । तव॑ । ताम् । दे॒वाः । अनु॑ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत॑ऽबन्धवः ॥अदितिः । हि । अजनिष्ट । दक्ष । या । दुहिता । तव । ताम् । देवाः । अनु । अजायन्त । भद्राः । अमृतबन्धवः ॥aditiḥ | hi | ajaniṣṭa | dakṣa | yā | duhitā | tava | tām | devāḥ | anu | ajāyanta | bhadrāḥ | amṛta-bandhavaḥ