Sukta 10.70
ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे । पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥
ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ । पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥
ūrdhvó grā́vā bṛhád agníḥ sámiddhaḥ priyā́ dhā́māny áditeḥ upásthe | puróhitāv ṛtvijā́ yajñé asmín vidúṣṭarā dráviṇam ā́ yajethām ||
Raised is the pressing-stone; the vast Fire is kindled; the dear seats are set in Aditi’s lap. O two priests set in front, knowing best, perform the sacrifice here and bring the wealth of fullness into us.
ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ । पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्इद्धः । प्रिया । धामानि । अदितेः । उपस्थे । पुरःहितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुःतरा । द्रविणम् । आ । यजेथाम् ॥ūrdhvaḥ | grāvā | bṛhat | agniḥ | sam-iddhaḥ | priyā | dhāmāni | aditeḥ | upa-sthe | puraḥ-hitau | ṛtvijā | yajñe | asmin | viduḥ-tarā | draviṇam | ā | yajethām