Sukta 10.70
देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ । आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥
दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥
devī́ divó duhitárā su-śilpé uṣásā náktā sadatāṃ ní yónau | ā́ vāṃ devā́sa uśatī́ uśánta uráu sīdantu subhage upásthe ||
O divine daughters of Heaven, beautifully fashioned—Dawn and Night—take your seat in your own womb of order. May the gods who desire you, desiring the offering, sit wide in your blissful lap.
दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥देवी इति । दिवः । दुहितरा । सुशिल्पे इति सुशिल्पे । उषसानक्ता । सदताम् । नि । योनौ । आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगे इति सुभगे । उपस्थे ॥devī iti | divaḥ | duhitarā | suśilpe itisu-śilpe | uṣasānaktā | sadatām | ni | yonau | ā | vām | devāsaḥ | uśatī iti | uśantaḥ | urau | sīdantu | subhageitisu-bhage | upa-sthe