Sukta 10.70
दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् । उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम् ॥
दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् । उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥
divó vā sānú spṛśátā várīyaḥ pṛthivyā́ vā mā́trayā ví śrayadhvam | uśatī́r dvā́ro mahinā́ mahádbhir deváṃ ráthaṃ ratha-yúr dhārayadhvam ||
Touch the wide summit of heaven, or by the measure of earth expand yourselves. O Doors of the Dawn, desired and mighty in your greatness, uphold the divine chariot for the one who drives the journey of the rite.
दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् । उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥दिवः । वा । सानु । स्पृशत । वरीयः । पृथिव्या । वा । मात्रया । वि । श्रयध्वम् । उशतीः । द्वारः । महिना । महत्भिः । देवम् । रथम् । रथयुः । धारयध्वम् ॥divaḥ | vā | sānu | spṛśata | varīyaḥ | pṛthivyā | vā | mātrayā | vi | śrayadhvam | uśatīḥ | dvāraḥ | mahinā | mahat-bhiḥ | devam | ratham | ratha-yuḥ | dhārayadhvam