Sukta 10.70
वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे । अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवान् ॥
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे । अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥
ví práthatāṃ devá-juṣṭaṃ tiraścā́ dīrgháṃ drāghmā́ surabhí bhūtv asmḗ | áheḷatā mánasā deva bárhir índra-jyeṣṭhān uśató yakṣi devā́n ||
Let the sacred seat spread wide—god-delighting—stretched broad and long, becoming for us fragrant. O divine Barhis, with a mind free from hostility, worship the gods who desire the offering, with Indra as the first among them.
वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ । अहे॑ळत । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥वि । प्रथताम् । देवजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति । अहेळत । मनसा । देव । बर्हिः । इन्द्रज्येष्ठान् । उशतः । यक्षि । देवान् ॥vi | prathatām | deva-juṣṭam | tiraścā | dīrgham | drāghmā | surabhi | bhūtu | asme iti | aheḷata | manasā | deva | barhiḥ | indra-jyeṣṭhān | uśataḥ | yakṣi | devān