Sukta 10.70
शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता ॥
श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्म॑न्तो मनु॒ष्या॑सो अ॒ग्निम् । वहि॑ष्ठै॒रश्वै॑: सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥
śaśvattamáṃ īḷate dūtyā́ya haviṣmánto manuṣyā́so agním | vahiṣṭháir áśvaiḥ su-vṛ́tā rathénā́ devā́n vakṣi ní ṣadéha hótā ||
The human seekers, bearing the offering of their will, ever adore Agni for the work of the messenger. With his strongest steeds and with the well-turned chariot, bring the gods to us; take thy seat here as the invoking priest within us.
श॒श्व॒त्ऽत॒मम् । ई॒ळ॒ते॒ । दू॒त्या॑य । ह॒विष्म॑न्तः । म॒नु॒ष्या॑सः । अ॒ग्निम् । वहि॑ष्ठैः । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । आ । दे॒वान् । व॒क्षि॒ । नि । स॒द॒ । इ॒ह । होता॑ ॥शश्वत्तमम् । ईळते । दूत्याय । हविष्मन्तः । मनुष्यासः । अग्निम् । वहिष्ठैः । अश्वैः । सुवृता । रथेन । आ । देवान् । वक्षि । नि । सद । इह । होता ॥śaśvat-tamam | īḷate | dūtyāya | haviṣmantaḥ | manuṣyāsaḥ | agnim | vahiṣṭhaiḥ | aśvaiḥ | su-vṛtā | rathena | ā | devān | vakṣi | ni | sada | iha | hotā