Sukta 10.70
आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः । ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥
आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वै॑: । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥
ā́ devā́nām agrayā́veha yātu narā́śaṃso viśvárūpebhir áśvaiḥ | ṛtásya pathā́ námasā miyédho devébhyo devátamaḥ susū́dat ||
Let Narāśaṃsa, the leader in the advance of the gods, come here with steeds of all forms. By the path of R̥ta, with reverence, may the consecrated one—most divine among the divine powers—set them well in their seats within us.
आ । दे॒वाना॑म् । अ॒ग्र॒ऽयावा॑ । इ॒ह । या॒तु॒ । नरा॒शंसः॑ । वि॒श्वऽरू॑पेभिः । अश्वैः॑ । ऋ॒तस्य॑ । प॒था । नम॑सा । मि॒येधः॑ । दे॒वेभ्यः॑ । दे॒वऽत॑मः । सु॒सू॒द॒त् ॥आ । देवानाम् । अग्रयावा । इह । यातु । नराशंसः । विश्वरूपेभिः । अश्वैः । ऋतस्य । पथा । नमसा । मियेधः । देवेभ्यः । देवतमः । सुसूदत् ॥ā | devānām | agra-yāvā | iha | yātu | narāśaṃsaḥ | viśva-rūpebhiḥ | aśvaiḥ | ṛtasya | pathā | namasā | miyedhaḥ | devebhyaḥ | deva-tamaḥ | susūdat