Sukta 10.70
इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् । वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥
इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् । वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥
imā́ṃ me agne samídhaṃ juṣasvélaspadé práti haryā ghṛtā́cīm | várṣman pṛthivyā́ḥ sudinatvé ahnām ūrdhvó bhava sukrato devayajyā́ ||
Accept this my kindling, O Agni; on the seat of Ila take delight in the ghee-bright offering. On the heights of Earth, in the fair-day wideness of the days, rise upward—O power of right intelligence—towards the worship of the Divine.
इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् । वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दिन॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥इमाम् । मे । अग्ने । सम्इधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् । वर्ष्मन् । पृथिव्याः । सुदिनत्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इति सुक्रतो । देवयज्या ॥imām | me | agne | sam-idham | juṣasva | iḷaḥ | pade | prati | harya | ghṛtācīm | varṣman | pṛthivyāḥ | sudina-tve | ahnām | ūrdhvaḥ | bhava | sukrato itisu-krato | deva-yajyā