Sukta 10.7
स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः । यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥
स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाक॑: कृणव॒दप्र॑चेताः । यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥
svayáṃ yajasva diví deva devā́n kíṃ te pā́kaḥ kṛṇavad ápracetāḥ | yáthā́yaja ṛtúbhir deva devā́n evā́ yajasva tanváṃ sujāta ||
Sacrifice by thyself in heaven, O God, to the gods; what can the unknowing do for thee? As thou didst sacrifice to the gods with the seasons, so now sacrifice—make thy own being the offering, O well-born.
स्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः॑ । कृ॒ण॒व॒त् । अप्र॑ऽचेताः । यथा॑ । अय॑जः । ऋ॒तुऽभिः॑ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥स्वयम् । यजस्व । दिवि । देव । देवान् । किम् । ते । पाकः । कृणवत् । अप्रचेताः । यथा । अयजः । ऋतुभिः । देव । देवान् । एव । यजस्व । तन्वम् । सुजात ॥svayam | yajasva | divi | deva | devān | kim | te | pākaḥ | kṛṇavat | apra-cetāḥ | yathā | ayajaḥ | ṛtu-bhiḥ | deva | devān | eva | yajasva | tanvam | su-jāta