Sukta 10.69
देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् । यत्सम्पृच्छं मानुषीर्विश आयन्त्वं नृभिरजयस्त्वावृधेभिः ॥
दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् । यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥
devā́ś cit te amṛ́tā jātavedo mahimā́naṃ vādhryaśva prá vocan | yát sampṛ́cchaṃ mā́nuṣīr víśa ā́yan tváṃ nṛ́bhir ajayas tvā́vṛdhebhiḥ ||
Even the immortals, O Jātavedas, have proclaimed thy greatness, O Vādhryaśva. When the human clans came to question and seek, thou didst win with men who grow by thee—strengthened by thy increase.
दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒धि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् । यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥देवाः । चित् । ते । अमृताः । जातवेदः । महिमानम् । वाधिअश्व । प्र । वोचन् । यत् । सम्पृच्छम् । मानुषीः । विशः । आयन् । त्वम् । नृभिः । अजयः । त्वावृधेभिः ॥devāḥ | cit | te | amṛtāḥ | jāta-vedaḥ | mahimānam | vādhi-aśva | pra | vocan | yat | sam-pṛccham | mānuṣīḥ | viśaḥ | āyan | tvam | nṛ-bhiḥ | ajayaḥ | tvāvṛdhebhiḥ