Sukta 10.69
पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् । जुषाणो अस्य समिधं यविष्ठोत पूर्वाँ अवनोर्व्राधतश्चित् ॥
पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् । जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥
pitéva putrám abibhar upásthe tvā́m agne vadhryaśváḥ saparyán | juṣāṇó asya samídhaṃ yaviṣṭhóta pū́rvāṃ avano r vrā́dhataś cit ||
As a father bears his son upon his lap, so Vādhryaśva, serving thee, bears thee, O Agni, in the seat of the being. Accepting his kindling, O youngest, thou hast guarded even the former ones—yes, even those who had fallen away from the right.
पि॒ताऽइ॑व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒पऽस्थे॑ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒ऽअ॒श्वः । स॒प॒र्यन् । जु॒षा॒णः । अ॒स्य॒ । स॒म्ऽइध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा॑न् । अ॒व॒नोः॒ । व्राध॑तः । चि॒त् ॥पिताइव । पुत्रम् । अबिभः । उपस्थे । त्वाम् । अग्ने । वध्रिअश्वः । सपर्यन् । जुषाणः । अस्य । सम्इधम् । यविष्ठ । उत । पूर्वान् । अवनोः । व्राधतः । चित् ॥pitāiva | putram | abhibhaḥ | upa-sthe | tvām | agne | vadhri-aśvaḥ | saparyan | juṣāṇaḥ | asya | sam-idham | yaviṣṭha | uta | pūrvān | avanoḥ | vrādhataḥ | cit