Sukta 10.69
त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक् । त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः ॥
त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् । त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भि॑: ॥
tvé dhénuḥ sudúghā jātavedo ’sáścateva samánā sabardhúk | tváṃ nṛ́bhir dákṣiṇāvadbhir agne sumitrébhir idhyase deváyadbhiḥ ||
In thee is the richly yielding Cow of plenty, O Jātavedas—inseparable, moving in one harmony, giving the full milk of force. Thou, O Agni, art kindled by men who bear the right offering, by good friends who seek the Divine.
त्वे इति॑ । धे॒नुः । सु॒ऽदुघा॑ । जा॒त॒वे॒दः॒ । अ॒स॒श्चता॑ऽइव । स॒म॒ना । स॒बः॒ऽधुक् । त्वम् । नृऽभिः॑ । दक्षि॑णावत्ऽभिः । अ॒ग्ने॒ । सु॒ऽमि॒त्रेभिः॑ । इ॒ध्य॒से॒ । दे॒व॒यत्ऽभिः॑ ॥त्वे इति । धेनुः । सुदुघा । जातवेदः । असश्चताइव । समना । सबःधुक् । त्वम् । नृभिः । दक्षिणावत्भिः । अग्ने । सुमित्रेभिः । इध्यसे । देवयत्भिः ॥tve iti | dhenuḥ | su-dughā | jātavedaḥ | asaścatāiva | samanā | sabaḥ-dhuk | tvam | nṛ-bhiḥ | dakṣiṇāvat-bhiḥ | agne | su-mitrebhiḥ | idhyase | devayat-bhiḥ